________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANBERIT MANUBORIPTB
8121
Beginning:
श्रीमत्स्वयम्प्रकाशाख्यमहते महसे नमः। यन्मोहतिमिरोद्दण्डचण्डभानुशतायते ॥ वेदान्तसंग्रहग्रन्थं व्याकरोमि यथामति । स्वबुद्धिशुद्धयै योगीन्द्राः अन्तुमर्हन्ति साधवः ।। समुद्रकलशन्यायात्स्वधर्मादेव केवलम् । महादेवमुनीन्द्रेण पूज्यते गुरुरादरात् ॥ श्रीगुरोः कृतिसम्बन्धान्मद्वाक्यं श्लाघ्यमेव हि । रथ्योदकं यथा गङ्गाप्रवाहपतनाच्छुभम् ।। इह खलु लोकानुग्रहार्थमवतीर्णो भगवांश्चन्द्रच्डः स्व. यम्प्रकाशाभिधानोऽस्मद्गुरुः जननमरणरूपसंसारमहातापतप्तानां भाष्यादिमहानदीप्रवाहगमनासमर्थानां तापनिवृत्त्यर्थ प्रपापरिकल्पनमिव ऋजुमार्गेण ब्रह्मात्मविज्ञानाय वेदान्तसंग्रह इति प्रकरणं कर्तुमविनेन परिसमा. प्त्यर्थमाशीनमस्क्रियावस्तुनिर्देशो वेति न्यायात् शिष्टाचारपरिप्राप्तमादौ स्वगुरुनमस्काररूपं मंगलं शिष्यशिक्षार्थ ग्रन्थादौ निवनाति । म् ॥ गोपालयोगीन्द्रगुरोः प्रसादाद
__ ब्रह्माहमेतन्मयि भाति विश्वम् । स्वयम्प्रकाशो मुनिरादरेण तस्याविपचं प्रणतोऽस्मि नित्यम् ।।
717
For Private and Personal Use Only