________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BANSKRIT MANUBORISTI
5715
15
सर्वोपनिषदा सारभूतेन प्रणवेन यम् । जानन्ति यतयः सच्चित्सुखाद्वैतमवैम्यहम् ॥ इह खलु श्रीमान् कैवल्यानन्दयोगीश्वरो नाम कश्चिद्विपश्चित् बहुजन्मसुकृतनिकरपरिपाकवशादुपजातेश्वरानुग्रहसमासादितकरतलामलकीकृतपरब्रह्मतत्त्वः परमकारुणिकश्रीगुरूपदिष्टप्रणवार्थज्ञानात् विगलितनिखिलबन्धः स्वयं नित्यनिरतिशयानन्दस्वप्रकाशनिष्प्रपञ्चपरिपूर्णप्र. त्यगात्मानमनुबोभूयमानौ(नो) मुमुक्षुजनतासमनुजिघृ. क्षया तापनीयोपनिषत्प्रतिपादितप्रकारेण प्रणवार्थ कैश्चिन्छलोकैस्संजरीगृहीष्ठ । ते च यथामति व्याख्यायन्ते ।
अकारोकारवर्णाभ्यां + तथोमिति ॥
End:
य इत्थं + आनन्दवारिधिः ॥
एवं गुरोः सकाशादोंकारतवं सम्यज्ञात्वा उक्तप्रकारेण मनः स्वात्मनि प्रणिदधन परमहंसः अत्रैव सर्वानर्थेभ्यो विमुक्तस्सदा स्वप्रकाशपरमानन्दरूपेणावतिछेत ॥ " ब्रह्मविदामोति परं," " तरति शोकमात्मवित्" " यो वेद निहितं गुहायां" " सोऽविद्याग्रन्थि विकिरतीह सोम्य," "भिद्यते हृदयग्रन्थिा" " ब्रह्म वेद ब्रह्मैव भवति" इत्यादिश्रुतिशतेभ्यः ।
For Private and Personal Use Only