________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5624
A DESCRIPTIVE CATALOGUE OF सम्यनिरुपितमिदं यदि नाद्रियन्ते.
दुष्टा निकृष्टमतयो हृदि मत्सरेण । किं तावता....वता मम चेन्न जातु
दुग्धस्य शुद्धमधुरस्य विमोक्षणं स्यात् ॥ चिकीर्षितं प्रतिजानीते ॥ सर्ववेदान्तेति ॥ सर्वश्चासौ वेदान्तसिद्धान्तश्चेति । विवराणाचार्यवार्तिककारादिकृतनिरूपणाभेदेनानेकविधत्वमापनस्य क्कापि वेदान्तसिद्धान्तो निरूप्यत इति भावः ।
End:
न च प्रस्थानत्रये दृष्टिसृष्टिवादे ईश्वरो नास्तीति क. चिदन्थोक्त(?) परमार्थतो नास्तीति तु व्यवहारवादेऽपि तुल्यं । उपसंहरति । तस्मादिति ॥ धर्मावधीनां करुणावधीनां
श्रीमद्गुरूणां चरणावलम्बात् । यत्सम्प्रदायं श्रुतिसंप्रभाय(दायं)
निरूपितं तुष्यतु तेन विष्णुः ।। इत्येषा वाया पूजा तुरगास्यस्य पादयोः । अर्पिता तेन मे देवः प्रीयतां परमेश्वरः ।।
Colophon: इति श्रीमदापदेवसूनुना अनन्तदेवेन कृतं सम्प्रदायनिरूपणं
समाप्तम् ॥
For Private and Personal Use Only