________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5668
A DESORITTIVE CATALOGUE om महेश्वरानन्दतीर्थ महेशापरविग्रहम् । शंकरं शंकरानन्दं उमौ वन्दे मुहुर्मुहुः ॥ कैवल्यरूपं कलये तीर्थ कैवल्यनामकम् । कैवल्यकारिणं पुंसां कैवल्येच्छावता गुरुम् ।। शुद्धानन्दयतीवरस्य शुभदं वन्देऽघ्रिपद्वयं
शुद्धब्रह्मविचारमार्गकुशलस्वान्तस्य शुद्धिप्रदम् । शुद्धत्वादपि कायकर्मवचसामानन्दहेतोर्नृणां
शुद्धानन्द इति प्रसिद्धिरमला यस्यार्थतो नामतः ।। भुवि कश्चनपूर्णनामको विशिखो विष्णुमयोऽसितच्छदः । त्रिपुरात्मविभेदने पटुः भवसन्तापहरो विराजते ।। विनेश्वरः सदा भूयाद विनवान्तदिवाकरः। श्रेयसां निधिरानन्दश्रेयसे भूयसे मम ।। द्विरददन्तवलक्षविभूतिभि
धवलितांगमहाश्वरकुण्डलम् । कटितटे परिणद्धगजाजिनं
कमपि दक्षिणदिमुखमाश्रये ।। सरस्वती सदानन्दा सर्वसिद्धिप्रदायिनी । सर्वार्थस्फूर्तिदा सा च सनिषतां सदा मम ॥ दक्षिणामूर्तिमीशानं दक्षिणं दक्षिणामुखम् । सर्वनं सर्वदं नृणां सदा ध्यायेम साक्षिणम् ।।
For Private and Personal Use Only