SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5020 A DESORIITIVE CATALOGUE OF तदर्थमिदं विचारणीयम् । किमध्ययनकरणकभावनायाः स्वर्गः फलं उतार्थावबोधः फलमिति । किंचातः । यदि स्वर्गफलं तस्याध्ययनमात्रादेव सिद्धेः मीमांसा न विधीयत इत्यनारम्भणीया सा । यद्यर्थावबोधः फलं तस्य तां विनासिद्धः विधीयत इत्यारम्भणीयेत्येतदतो भवति । तत्र पूर्वः पक्षः । अध्येतव्य इति तव्यप्रत्ययेन भावनाया. पभिहितायां भाव्यापेक्षायां विश्वजिन्न्यायेन स्वर्ग: कहप्यः । न च रात्रिसत्रन्यायेन "यं यं क्रतुमधीते तेन तेनास्येष्ठंभवती" त्यर्थवादप्रतीतस्य भाव्यत्वमिति साम्प्रतम् । तस्य ब्रह्मयज्ञाध्ययनफलत्वेन ग्रहणाध्ययनफलत्वाभावाव । अध्ययनं हि चतुर्विधं ग्रहणाध्ययन ब्रह्मयज्ञाध्ययन धारणाध्ययन प्रायश्चित्ताध्ययन भेदात् ।। तत्राध्ययनस्य विश्वजिन्न्यायन स्वर्ग एव भाव्यः ॥ End. किम् प्राप्तस्याङ्गत्वस्य बाध उतानुष्ठानस्येति । नायः, अन्यत्वमन्यातिदेशप्रमाणकस्य बाधासम्भवात् । अनुष्ठानस्यैव बाधाभ्युपगमाम द्वितीयः। अनुष्ठानस्याप्राप्तत्वातत्सिद्धं यत्प्राप्तमात्वं न तस्य बाधा यस्यानुष्ठानस्य पाधो न तत्प्राप्तमिति । एवं सति मुख्यार्थविवक्षाशूरः गुरुरुपेक्ष्य इति ॥ Colophon: ॥ इत्यतिदेशविवेकः ॥ For Private and Personal Use Only
SR No.020237
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 12
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages230
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy