________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Beginning :
SANSKRIT MANUSCRIPTS
Lines --- 5 to a Page. Script-Telugu. No. of Granthas980. Author-Visvesvara. Complete. Printed.
वागीश्वरं नमस्कृत्य व्यासशार्दूलनारदान् । वाणीं च कुर्मो माण्डीरभाषा व्याकरणं शुभम् ॥ भाण्डीरदेशे भाण्डीरवटशाखाप्रसारिते । वृन्दावनान्तरे कृष्णः पूर्णानन्दपरिप्लुतः || कलिङ्ग गौड काम्भोजावन्त्य सौराष्ट्रमागधीः । महाराष्ट्रे च सम्भृतैः सरसैर्गोपिकाजनैः ॥ परिश्रममपाकर्तुं रासक्रीडां विधाय च । भाण्डीरतरुमाश्रित्य त्रिभङ्गिस्थानकः स्थितः ॥
अधःकराभ्यां पश्चेषुक्रियाचातुर्यलोलुपः । चारयन्नूर्ध्वपाणिभ्यां वेणुनादं मृदुस्वतः ॥ तामिस्तद्देशजात्रागानाकर्ण्य परया मुदा । समीररूपात्रागस्ताननिबद्धतया नृणाम् ।।
प्रसिद्धी कर्तुमानन्दाद्भाण्डीरं बहुदेशजम् । विचारयनैकदेशभाषया ग्राम्यवाचकाः ॥
Acharya Shri Kailassagarsuri Gyanmandir
सन्तीति तान् समुत्सृज्य गोपस्त्रीपरिभाषितान् । मृद्वालापान्समादाय रागान्सौ (?) पोषयन्मुदा ||
भाण्डीरभाषामादाय रीतिप्रीतिसमन्विताम् । लोकानुग्रहकार्यार्थे गोपीनादेन नारदः ॥
प्रवर्तयति भाण्डीरमाज्ञप्तः परया मुदा ।
For Private and Personal Use Only
4415