________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MAŽUBORISTS चामस्य वृत्तविद्याधाम्नो भ्राता त्रिविक्रमः सुकविः ॥ श्रीवीरसेनजिनसेनार्यादिवचःपयोधिपूरात्कतिचित् । प्राकृतपदरत्नानि प्रकृतिकृती सुकतिभूषणाय चिनोति ॥ अनल्पार्थसुखोच्चारः शब्दः साहित्यजीवितम् । स च प्राकृतमेवेति मतं सूत्रानुवर्तिनाम् ।। प्राकृतं तत्सम देश्यं तद्भवञ्चेत्यतनिधा। तत्समं संस्कृतसमं नेयं संस्कृतलक्ष्मणा ।। देश्यमापञ्च रूढत्वात्स्वतन्त्रत्वाच्च भूयसा। लक्ष्म नापेक्ष्यते तस्य संप्रदायो हि बोधकः ।। प्रकृतेः संस्कृतात्साध्यमानासिद्धाच यद्भवेत् । प्राकृतस्यास्य लक्ष्यानुरोधि लक्ष्म प्रचक्ष्महे ॥ प्राकृतपदार्थसार्थप्राप्त्यै निजसूत्रमार्गमनुजिगमिषताम् । वृत्तियथार्थसिद्धथै त्रिविक्रमेणागमक्रमास्क्रियते ।। तद्भवतत्समदेश्यप्राकृतरूपाणि पश्यतां विदुषाम् । दर्पणतयैवमवनौ वृत्तिस्त्रविक्रमी जयति ॥ प्राकृतरूपाणि यथा प्राच्यैराहेमचन्द्रास्यात् । विकृतानि तथा तानि प्रतिविम्बितानीह सर्वाणि ॥
सिद्धिलोकाच । सिद्धिरिह प्राकृतसंबन्धिनी परिगृह्यते । सा च लोकाद्रवति ।
End:
__ अथ आडिवरी
-
*
कल्लिगडत
553
For Private and Personal Use Only