________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8786
A DEBORIPTIVE CATALOQUE OP
अस्ति तजापुरं नाम हस्तिवाजिकुलाकुलम् । अशेषचोलधरणीविशेषकमनोहरम् ॥ ३ ॥ अमरावतिकाबद्धसमरागारमञ्जुलम् । इन्दिरानर्तकीनृत्तमन्दिरायितमायतम् ॥ ४ ॥ तत्रास्ति शाहनृपतिः सुत्रामसमवैभवः । प्रतापतपनस्फूर्तिप्रकाशितदिगन्तरः ॥ कीर्तिकेलिपराभूतकार्तिकेन्दुपरम्परः । वामनीतकन्दर्पकामनीयकदुर्मदः । धिषणोरुतरप्रज्ञाकषणोक्तिविशारदः ॥ अंहतिख्यातकल्पादिसंहतीकृत्य वैभवः । प्रत्यनीककिरीटाम्बुनित्यनीराजिताहिकः ॥
तेन साहित्यसर्वस्वनिधिना कविबन्धुना । भोसलाम्बुधिचन्द्रेण दीपाम्बामाग्यराशिना ।। नियुक्तः करुणापूर्व नितरां प्रीतिशालिना । पुत्रः श्रीदक्षिणामूर्तेर्गङ्गापावितवम॑णः ॥ रामभद्रमखिश्रेष्ठदयासर्वस्वभाजनम् । वेदश्रौतनिधिः शब्दशास्त्रमार्गाध्वनीनधीः । कौण्डिण्यकुलमूर्धन्यः सुमतिर्वेङ्कटेश्वरः । निघण्टुं पण्डितप्रीत्यै निवनाम्येष नूतनम् ।। उणादिपश्चपाया ये शब्दाः पूर्वैरुदाहृताः ।
For Private and Personal Use Only