________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4080 A DESORIPTIVE CATALOGUE OF
क्षणनिबन्धनं चिकीर्षुस्वत्र लक्षणरत्नावस्याख्या लक्षणपइति प्रदर्शयन् स्वात्मदेवस्य निखिलदेवताराभ्यपादु. कस्य निशेषभुवनावनदक्षस्य श्रीचन्द्रशेखरस्य प्रणाम समस्तदुस्तरप्रतिबन्धनिवर्तकं निवनाति नान्धाख्यपधेन वन्दारुबन्दारकमौलीत्यादिना ॥ वन्दारुवृन्दारकमौलिरत्न
ज्वालासमुद्रासिपदारविन्दम् । नतेप्सितार्थार्पणकामधेनुं
नमामि बालेन्दुलसकिरीटम् ॥ इति ।। अथ नाटकेषु नान्याख्यपथस्य वरसन्देशकविभेदेन पदनियमतदभावपक्षद्वयमपि मनसि निधाय पादस्य क. चिद्वाक्यस्य कचिदर्षस्य कचित्पदामिधा गौणताप्रकाधिनीमध्यनुसन्धाय तल्लक्षणमभिपत्ते यत्राष्टाभिरिति ।
यत्राष्टभिदशभिरष्टादशामिरेव वा । द्वाविंशत्या पदैर्युक्ता सा नान्दी परिकीर्तिता ॥
पत्र नान्याख्यपधे अष्टपदानि द्वादशपदानि अष्टादशपदानि द्वाविंशत्पदानि सन्ति एव(?) वेत्युक्तत्वात् । एते मध्ये पदाष्टकस्य पदद्वादशकस्थ पदाटादशकस पदहाविशतेरेकसत्वेऽपि लक्षणं पटत इत्यर्थः। पादस्य पदत्वे चतुष्पदापि । अर्धस्य पदत्वे द्विपदापीति लभ्यते । वाक्यस्यपदत्वे
For Private and Personal Use Only