________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSCRITS
3366
मामैषीः कमले भृशं विकिरति श्रीरामचन्द्रप्रभु..
स्त्वामित्यम्ब तवास्ति पूरणकरः सर्वो नृपाणां गणः । भ्राता ते विधुरम्बुधिः किल पितापीतः परे पूर्यते मामवी न स कृष्ण एष हृदये यस्त्वां चिरं धास्पति ॥१॥
तस्य चक्रवर्तिनः सम्यगानन्दाय भगवळ्यासपादप्रणीत ययातिचरितमाश्रित्य गुहवंशनभस्तलैकहंस गौडेन्द्रमहामात्यकविपण्डितप्राप्तविश्वासस्थानपदवीकश्रीहर्षपदाभिषेयानामात्मजस्य रामचन्द्रकवेविरचना नवीनमैन्दवानन्दनामनाटकमेतदाराधनार्थ मह्यमभिरोचते । तत्र परामृश्यतु भवान् । सूत्रधारः । प्रिये, किं यस्य प्रार्थयितव्यञ्चैतत् । कृताञ्जलिः प्रणिपत्य याचे
महानुभावाः परिहासतोऽपि । सापाच निन्दाच परीक्षकत्वादयुज्यमानामिह नावहध्वम् ।।
नटी । अह इम् ।
अविजा उत्फुल्ला अलआ कुसुमहसिअ सोहणी अवासन्ती । एको भमरजुआणो किं कुणउदुवे पलोअचो॥
For Private and Personal Use Only