________________
Shri Mahavir Jain Aradhana Kendra
8648
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
(नेपथ्ये ) भवत्ववहिताः स्मः ।
सूत्र || (पुरोऽवलोक्य)
जरठापकाले प्रागेवोद्वेजयति भगवान्मार्तण्डः । वाणादिह परिमुक्तो लोहितमध्ये स्थितोऽतिशल्य इव ॥ अयेऽनिरुद्धो गिरिणा सहसोपारागरञ्जितोऽभ्येति । (नेपथ्ये) साधु रे भरतपुत्र साधु
( वाणादिति पुनः पठति ॥ )
|| (ततः प्रविशति नटी) |
(तावदाकाशे समुच्चरति नाभिव्यक्तार्था भारती । सर्वे ससम्भ्रममाकर्णयन्ति)
सूत्र || (आकाशे कर्णे दत्वा) । किमाज्ञापयति भगवती यदुत विजितं कंसारिणा तदागमनं प्रतीक्षमाणा असमयजनित वसन्तोत्सवेन पुरीमानन्दयन्तु द्वारकौकस इति ॥
End:
(ततः प्रविशति यथा निर्दिष्टश उषा) (समुपसृत्य ) चित्र || (विभाव्य) पिअसहि देवेसिजो पडिवं देहि
चलणा ।
उषा || प्रस्त्रिनपाणितलाभ्यामुपस्पृशति चरणौ ।
नार || वत्से भजस्व मनोऽभिलषितां सिद्धिम् ।
देवी || (सविनयं समुत्थाय पार्श्वे समुपवेशयति सर्वे नारदमुखमवलोकयन्ति)
देवी || भगवं अग्गि अजेको विणिजज्जीअदु ।
For Private and Personal Use Only