________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3878
A DESORIITIVE CATALOGUE OF
Beginning: क्रीडानिर्भरपीलितेक्षणमतिश्वासोद्गमप्रस्फुर
द्वक्षोजद्वितयं विलोलकबरीप्रच्छादितासाननम् । वीलाव नमितोत्तमाङ्गमनिशं सस्मेरवक्ताम्बुजं रत्यास्तत्सुरतान्तकान्तिरुचिरं भूयाद्वपुः श्रेयसे ।।
॥ नान्यन्ते सूत्रधारः॥ (सर्वतो विलोक्य)। कथमिदानी भगवतः श्रीनिवासस्याश्थानोत्सवदर्शनाय मिलिता एव पारिषदाः। तदेतानित्थं विज्ञापयामि (अञ्जलिं बध्वा)। भो भो एष भरताचार्यपुत्रोऽहमवहितोऽस्मि भवदाराधने। तदुच्यता कस्मिश्रुत्कण्ठिता तत्रभवताश्चित्तवृत्तिः (कर्ण दत्वा) कि बूथ । जापात्रादिजनस्य चेष्टितमभिव्यक्तीचकाराखिलं
यत्र श्रीः कमलापतेः सुचरितं सामर्थ्यमप्यात्मनः । गोविन्दाख्यसुहृत्कृतेयमुटकेगोविन्दनामा कविः प्राणैषीदधुनैव भाणमतुलं गोपाललीलार्णवम् ॥
नटी ॥ (सशिरः कम्पम् ) | आर्य क ईदृशः कविः
यस्य लोकोचरा धृतिः प्रगल्भता च । सू ॥ गोविन्दकविरेव । नटी ॥ (स्तब्धं तूष्णीं तिष्ठति)। सूत्र ॥ (सप्रणयकोपम् ) अयि प्रेयसि । तातो यस्य दिगन्तविश्रुतयशाः श्रीरङ्गवर्याभिधो माता यस्य सरस्वती सुचरिता साध्वीनुवैतारयोः ।
For Private and Personal Use Only