________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8408
A DESCRIPTIVE CATALOGUE OF महीकलत्रेण । यथा किल रसगर्भसन्दर्भविशेषेण सामाजिककुतूहलं निस्तुलं कलयामि। * सूत्र ॥ मारिष शृणोषि अद्भुतरसमायमद्भुतकरं नलानन्दं
नाम नाटकम् ॥ न ॥ भाव अपिजानासि कर्तारमस्यरूपकस्य ।। सू॥ कथमझात एव भवता । तथाहिकि खण्डः किमुमाक्षिकं किमथवागोक्षीरधारा किमु
प्रख्यं दिक्षुतदिक्षुकिं पुनरिदं पीयूषमामुध्मिकम् । इत्थं नैकविधामवाप्य बहुधा सन्देहदोलाबुधाः
दोलन्ते श्रवसा पदायकवितासारं पिबन्तो मुहुः ॥ ३ ॥ अरुन्धतीसतीदनि रुन्धती निजचर्यया। जयन्ती यस्य जननी वैजयन्तीव या क्षितेः ॥ ४ ॥ जीवनाम्नः कवेस्तस्य कोनेरिततुजन्मनः । कृतिं विद्धि नलानन्दं सुब्रह्मण्यप्रसादतः ॥ ५ ॥ नटी ।। भाव क एष सुब्रह्मण्य इति नाम परिष्करोति । व ॥ यत्रैपुण्यकलाविलासजलपावाप्लुत्यवाचस्पति.
स्तत्ताहग्गरिमाणमाप यदसौ नाम्ना ततोऽभवः । पत्तेजकणिकामवाप्य गणिका रम्भादिमा वैरिणः
सद्यस्विद्यदमन्दकम्पकलितस्वाङ्गा लभन्ते तमाम् ॥६॥ सचायमस्य कविकुलतिलकस्य भरद्वाजगोत्रसम्मवस्य पितृव्यतयोपदिष्णतया च देशिकशिखामणिः ॥ नटी ॥ अहो धन्यता मान्यता च वेदभानोः।
For Private and Personal Use Only