________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2889
SANSKRIT MANUSORIFTS स्वभावोक्तिश्चजातिश्चेत्याचा सालङ्कतिर्मता ॥" प्रियासन्देशप्रापकाधिगमार्थमाह ॥ End:
कृतोपकारं वारिदमाशिषाभिनन्दयाह । एतदि. त्यादि ॥ एतत्सन्देशप्रयाणलक्षणं प्रियमिष्टं कृत्वा वि. धाय मे मम कीदृशस्यानुचितप्रार्थनावर्त्मना दिव्यानुभावातपसमस्तवाञ्छितवस्तुत्वात् अनुरूपायाच... जलदपयो. दसाहाय्यान्मित्रभावाद्वा विधुरो दुःखितोऽहमिति धिया मम विषयेऽनुक्रोशबुध्या कृपया धिया वा त्वया महदुपकतम् । अतस्त्वमिष्टान् देशान् विषयान् विचर विहर। कीदृशः सन् ? सम्भृतश्रीः उपचितलक्ष्मीका। प्रावृषा वर्षासमये माभूत् मास्म भवान् क्षणमपि मुहूर्तमपि ते तव विद्युता तडिता प्रियया विप्रयोगोऽयं त्वा(?)ममेति दृष्टान्तस्याशिषो वा विषयो भवतीति । अत्रोर्जस्त्रि समुच्चयाशीदृष्टान्तानां सङ्करस्तथा च। यत्रैकानेक....वस्त्वपरस्यामुखावहाद्यैव । ज्ञेयः समुच्चयोऽसौ वेषान्यः सदसतोर्योगः ॥ आशीर्नामाभिलषितवरतुन्याशंसनम् ॥ १०६ ॥ उग्राषिताखिलपदामिह मेघदूते
काव्यप्रवन्धरसबन्धुरभावभाजि । मजीभवद्गुणकथं स्थिरदेवनामा टीकामिमामत कीर्तिमिव प्रसमाम् ॥१॥
For Private and Personal Use Only