________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSCRIPTS
2887
कश्चिदिति ॥ कश्चिदाकारि महनीय(१)स यदस्तङ्गमितमहिभेति वचनादनिश्चितनामा । यतः प्रकृतेऽनुपयोगि....त्यधेवास्मिकेळिवाक्ये पुराणकथनानुवादपन्देहमावहतीति कविर्या.........मनभिधाय सामान्येन नि. र्देशः । यः कोपि रक्षः पुण्यजनः वसतिश्चक्रे स्थितिञ्च कार । रामगिरिः दण्डक इति प्रसिद्धः। तस्याश्रमेषु मुनि वासोचितस्थानेषु रामवलितान्तःकरणस्य एकप्रस्थानसम्भवादाश्रमेष्विति बहुवचनम् । किम्भूतेषु जनकतनयास्ननिपुण्योदकेषु विदेहदुहित्राप्लवनपावनपानीयेषु । अत्रालधुराघवसनिधानेऽपि सीतायाः श्लाघा महासात्वनतिपादनार्थ तत्पृष्टानां देशानां तीर्थप्रततनार्थम् । तथा च "यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते" इति । अथ वा लिङ्गान्तरसम्भदेऽपि शृङ्गाराङ्गत्वात् स्त्रिया निर्देशः । पुनः कीदृशेषु स्निग्धच्छायातरुषु स्निग्धा आरक्ततिलक्षणया सान्द्रेत्यर्थः । छाया आतपप्रत्यनीकावपो लक्षितास्तरवः पादपा येषु ते नद्यः । यद्वा स्निग्धसरसपल्लवोष्णा(?)तत्वे नारूक्षाः छायातरवो निश्चलछायाः पादपाः विशेषणद्वयमपि सुखस्थितिकथनार्थम् । केन कारणेन पुन: असौ यक्षा स्वा पुरी परिहृत्य तत्र निवासमकार्षीत् ? । शापेन कोप वचसा । कस्य १ भर्तुः स्वामिनः । किम्भूतेन? वर्षभोग्येन वर्षेण भुज्यते वर्षभोग्यः संवत्सरपरिसमाप्यः । यद्वा वर्षे
For Private and Personal Use Only