________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BANSOIT MANUSORIRTS
8299
Beginning:
श्रीगणेशाय नमः ॥ पाषण्डमण्डनम् । मञ्जुलमन्दस्मितयुतमुखकमलामोहनिवहसंहीं । बन्धकबन्धुकान्तिालाम्बा भवतु मावपरिपूत्यै ॥ १ ॥ गौरीमायूरपुरान् पुरतोऽष्टकोशदूरमात्रमिते । कावेरीपुष्पपुरीनिकटे ग्रामोऽस्ति बाणगिर्याख्यः ।। यत्सविधे सह्यभवा सादरमाविशति सुभगकल्लोलम् । यत्र च विलसति नितरां रत्नच्छायावनेश्वरो देवः ।। बाणगिरिनामकेऽस्मिन्यामे कावेर्युपान्तिके भाति । यतिजननिवासभूता मठिका विबुधजनसेविता रम्या ॥ तत्रावसयतीन्द्रः साक्षाब्यास इव सर्ववेदज्ञः। आद्या स्वयंप्रकाशः शास्त्राद्यध्यापने सदा निरतः ॥५॥
तस्यासीच्छिन्यवरः सुब्रह्मण्याख्यविद्वदवतंसः । सकलजनमाननीयो मीमांसाद्वितयपारगो धीमान् ॥ ९॥
End:
श्रेयस्कराणि चिरकालवयःप्रदानि
यान्योत्तरेतरजनाभिहतानि काले। वाक्यानि सन्ति न तथा हृदयङ्गमानि
दत्तानि चौषधवराणि यथा मुमूर्षोः ।। ३२ ॥ स्वजनं हिनस्ति हस्ती स्वोत्तरदेशीययादवशवर्ती । स्वबलं न वेत्ति किचिन्मढमतिश्चोलवडम इव ॥ ३३ ॥
For Private and Personal Use Only