________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SANSKRIT MANUSCRIPTS
बाणीपादयुगं प्रणम्य कलये चम्पूप्रबन्धं कवि
श्लाघ्यं श्री शरभोजिराज चरितव्याख्यानमर्थोज्वलम् । कन्दर्पप्रमदाकराग्ज कलशीमाध्वीकसेकस्फुर
मृद्वीका फल माधुरी सहचरी यत्रास्ति वाग्वैखरी ॥ ५ ॥
अस्ति प्रभुः कश्चिदशेषलोक
स्वामित्वलाभेन समस्तसेव्यः ।
जगज्जनन्या जलराशिपुत्र्या कृतप्रतिष्ठो गृहमेधितायाम् ॥ ६ ॥
वर्णानशेषान्त्रपुषा सिसृक्षोः
क्षात्रं कुलं जातममुष्य बाहोः ।
सुधाशनारातिसुहक्कपोल
पत्राङ्कुरग्लानिकरप्रतापान् ॥ ७ ॥ साहस्रांशवमैन्दवं च महती ये द्वे कुले विश्रुते
तत्र श्रीरघुवंशनानि महिते मित्रान्वये भोसलः । राजाभूत्सुमतिः समग्रविमवैः आखण्डलप्रक्रियः
क्षोणीरक्षणदक्षिणो क्षितिजा ग्रेसरः केसरी ॥ ८ ॥
उन्मस्तकै र्मानुषलोकभाग्यैः
चितैश्वरित्रैरनवैः प्रजानाम् ।
लक्ष्मीपतिर्भोसलराजनाम्ना
Acharya Shri Kailassagarsuri Gyanmandir
जज्ञे जगद्रक्षणजागरूकः ।। ९ ।।
For Private and Personal Use Only
$289