________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SANSKRIT MANUBORIPTS
अस्ति प्रतीतं भुवनेऽनवद्यं भास्वत्कुलं भोसलनामधेयम् ।
साम्राज्यलक्ष्मीरनपायिनी यत्
प्रसूतिभाजः सवितुः प्रभेव ॥ ५ ॥
अभूयतेक्ष्वाकुभगरिथश्रीरामादिभिर्यत्र यशोधुरीणैः ।
आहुस्तदेवाक्षरभङ्गिभेदै
र्भास्वत्कुलं भोसलनामधेयम् ॥ ६ ॥
रामादिनामान्तरतां प्रपन्नै
मलोजिराजादिभिरेष वंशः ।
कमप्युदारं गमितः प्रहर्ष
कल्पद्रुमाद्यैरिव दुग्धसिन्धुः ॥ ७ ॥
मन्वादयश्चारुमहामहीन्द्रा
भुवं कृतादाविव पुण्यशीलाः ।
कलाववन्तोऽकलयन्त हृद्यां
जाताः कुलेऽस्मिन् जगति प्रशस्तिम् ॥ ८ ॥
नृपा इमे शम्भुकृपाविवर्ता
महासुरत्राणमनोज्ञशीलाः !
अशोभयम्त क्षितिमत्युदारा दिवं मयूखा इव शीतरश्मेः ॥ ९ ॥
प्रतापसौजन्यवदान्यताद्यैः
शैली गभीरा नृपतिष्वभीषु ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
8267