________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSCRIPTS
3261
विभावनीयं भवि विश्वरूपं
देव्या गिरां किञ्चन देदिवीति । जिज्ञासितं तद्यदि शीलनीया
श्रीहर्षवाणी सरसैः कवीन्द्रैः ॥ २४ ॥ ध्वनिः कवीन्द्राध्वनि कोऽप्यवेद्य.
श्रोत्रेण वेद्यः स तु लोचनेन । पेषामहीनस्त इमे सहस्र
मुखं विपक्षान्मुहुराक्षिपन्ति ॥ २५ ॥ अशन्ददाम्पत्यमबन्धहृद्य
मव्यायचातुर्यमरीतिपोषम् । काव्यं सदा ग्रन्थयितुं बिभेमि
शिक्षाकरे दण्डिनि देशिकेन्द्रे ॥ २६ ॥ अन्ये प्रथन्तां कवयः सहस्र
मकदा वा भुविकद्वदा वा। ते प्रस्तुता नेह परन्तु कालि
दासे कवौ नैव कदाप्युदासे ॥ २७ ॥ नयामि मामेव ततो नमस्या
शतं महासाहसजन्मभूमिम् । यस्मादमं वर्णयितुं यतिष्ये
रमेशरूपं रघुनाथभूपम् ॥ २८ ॥ प्राचां प्रबन्धान रसयन्तु भन्या
नमदचोऽप्याददतां रसज्ञाः।
For Private and Personal Use Only