________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9236
NANSKRIT MANUBORIPTS दूरे परिच्छेदकथा हि सत्य
मेतद्गुणानामुदधेरपाश्च ॥ १०॥ . भक्त्याथ वास्यैव मम प्रबन्धे
तीक्ष्णो यदुन्मीलति शक्तिलेशः । उल्लहिता यत्कपिना पयोधिः
सैवानुभावः स रघूरहस्य : ११ ॥ समत्सरे चेतसि दुर्जनानां
न जातुचित्सूक्तिगणो गुणाय । निसर्गकृष्णेन्द्रवधूकपोले
निरर्थका कुङ्कुमपत्रभागः ॥ १२ ॥ किमन्यदस्याश्चरितैर्नृपस्य
मुक्तावदातैः कुतमण्डनाया। मदीयमुक्तैर्मकरीमवन्तु
खभावशुद्धानि सतां मनासि ॥ १३ ॥ नमोऽस्तु साहित्यरसाय तस्मै
निषक्तमन्तःपृषतापि यस्य । सुवर्णतां वक्तुमुपैति साधो
वर्णतां याति च दुर्जनस्य ॥ १४ ॥ श्रीसाहसाङ्कोज्वलकीर्तिगर्भा
ममाथवा किं न हरन्ति वाचः । कस्यात्रलोभाय न शुक्तयस्ता
मुक्ता हि यासामुदरे स्फुरन्ति ॥ १५ ॥ एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डराणि।
For Private and Personal Use Only