________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BANSKRIT MANUSCRIPTS
9161
आनन्दबृन्दमरविन्दभवाद्यलब्धं
गोविन्द एव कुरुतां मरुतामधीशः । जातापरा जगति शम्भुकुटुम्बिनी य.
त्पादारविन्दमकरन्दझरी द्वितीया ॥ ३ ॥ मातर्वाणि किमर्म काद्यसदया भूयाः किमस्त्यद्भुतं
हुँ तत्कि श्वशुरस्तवैष पुरतः साक्षात्कृतः श्रीपतिः । सम्यक्ते नवमल्लिकापरिमलप्रस्पर्धिसन्ध्यानटप्रोद्यानागझलइझलारववचोगुम्भः समुज्जृम्भताम् ॥ ४ ॥
द्वन्द्वं तदद्भुतं वन्द्यमिन्द्वङ्करपरिष्कृतम् । यस्य दक्षिणभागेन शयनं पुरुषायितम् ॥ १४ ॥ किं तातेति प्रवक्ष्यामि किमु वा मातरित्यपि । संदिहानं सुतं दृष्ट्वा शिवयोरवतु स्मितम् ॥ १५ ॥ कबलीकृतकान्ताध कमनीयकलेबरम् । कर्पूरकोमलं किश्चिदथवा श्यामलं स्तुमः ॥ १६ ॥
दोषाकरो भवतु वेङ्कटनाथचम्पः
सन्तस्तथापि शिरसा परिपालयन्तु । दोषाकरस्तु लभते निजमूर्ध्नि शम्भोः
सर्वज्ञता न किमसौ सकलोपवन्या ॥ १९ ॥ वाणीह रञ्जयति मे रसिकानतीव
सर्वान् खलानपि तथापि न चित्रमेतत् ।
For Private and Personal Use Only