________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3117
SANSKRIT MANUEORIPTS
.........रघुपतेतीत्तमो नायको मुख्यो वीररसो विशन्त्यवयवाः शृङ्गारहास्यादयः । वातापत्यचरित्ररत्नघटितं तं चंपुमुक्तासरं
रामायैव समर्पयामि मम हृत्सिंहासनाध्यासिने ॥ ३८ ॥ श्रीरामः शरणं ममति वदतां संपत्समृद्धिर्मवेत्
कुर्याद्वर्षगणैः परं जलधरः संपन्नसस्यां भुत्रम् । लोकास्सन्तु गतव्यथाः कुशलिनस्तन्वन्तु यागादिकाः
व्यासेयं (?) रघुनाथपण्डितकृतिः जीयाजगत्यां चिरम् ॥३९॥ Colophon: इति श्रीरघुनन्दनपदारविन्दवन्दनकन्दलितसाहित्यसनाथेन रघुनाथेन विरचिते मारुतिविजयचम्पुकाव्ये रामपट्टाभिषेको नाम सप्तम. स्त बकः ॥ ७ ॥
मारुतिविजयचम्पू: समाप्तिमगमत् ।। हरिः ॐ । श्लोकसंख्या ३५ गद्यसंख्या ४ ॥ समप्र संख्या ३९ ॥
___ श्रीरामचन्द्रपरब्रह्मणे नमः लिखितं पुस्तकमिदं वामनाख्येन मौनिना । यदि शुद्धमशुद्धं वा विद्वद्भिः परिशोधयेत् (?) ।
चाटुश्लोकः ।। कांतासु विजगद्विमोहयति कः तं को ददाह स्फुट
तस्मात्किन्दितिजा ययुः करिबरं को नक्र इष्टं पपौ । गंगा को नु भगीरथेन चलितां कस्मिप्रियं वज्रिगो ___ यत्प्रश्नोत्तरपूर्ववर्णघटितं काव्याभिधानं विदुः ।। 391
For Private and Personal Use Only