________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BANSKRIT MANUSORDITS
8087
निगुम्भो यद्वाचां स जयतु विरिश्चाननपुटी
नटद्वाणीपाणिस्फुरितमाणिवीणाध्वनिसखः ॥ माणि कन्तति शनैरपि हन्ति मेय(१).
मन्याशं मनसि वैकृतमाददाति । प्रायेण दुष्कविवचः श्रवणं बुधानां
प्राचीनजन्मकृतदुष्कृतदुर्विपाकः ।। वन्ये वृक्षे फलमिव मयि न्यस्य वाचं भवानी
प्रायो हृष्टा भवसि सकलज्ञानशून्येऽद्य लोके । प्राज्ञो भूपो न हि न हि पुन व विद्वान गुणतः
तहचां मे फणितिपनघां त्वत्पदाब्जेऽर्पयामि ॥ निन्दा कन्दलयन्तु केऽपि विबुधा मात्सर्यदृष्टग्रह
ग्रस्ता द्वित्रिपदैकबन्धनभवन्माविमूढाशयाः । वाग्गुम्भेष्वपि मामकेषु न हि मे हानिर्मणीनां गणा
ज्योतिःपुञ्जममी किरन्ति किमु ते हीनापतो निन्दिताः ॥ सङ्गीतं श्रवणक्षणे सुखकरं नृतं तथालोकने
कामिन्या नवविभ्रमाः कुचपरीरम्भान्तसौख्यप्रदाः । वाचा गुम्भनसम्भ्रमस्तु सुकवेराचन्द्रतारं यशो
लोके स्थापयति प्रमार्टि दुरितान्यानन्दमासिञ्चति ॥ शास्त्रषु सत्स्वपि कलास्वपि ताहशीषु
काव्ये स्थितं मम मनः कृपयाम्बिकायाः । वाल्मीकितापसवरच पराशरस्य
भाग्यं मुनिश्च भुवनेषु कथं प्रसिद्धौ ।
For Private and Personal Use Only