________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BANAKRIT MANUSCRIPTI
3019
इयं वासवदत्ताख्याख्यायिकाव्याक्रिया स्फुटम् । त्रिविक्रमेण क्रियते मेधाविकुलजन्मना । ॥ करबदरेति ॥ सरस्वती वाग्देवी नदी च जयतीति वाक्यार्थः । सूक्ष्ममत्यः कवयः कुशाग्रबुद्धयः विद्वांसः । पक्षे कं जलम् । “पानीयं सलिलं कम्" इति हलायुधः । वि: पक्षी शकुनिः । " खगो नगौ कामपक्षी विः" इति हलायुधः। तत्र बहुवचनं कवयः जलचरपक्षिण इत्यर्थः। सूक्ष्ममतयः अल्पबुद्धयः। भुवनतला भूप्रदेशमखिलं भुवनतलं सकलभुवनतलमित्यर्थः। पक्षे भुवनं जलं । “जीवनं भुवनं वनम्” इति हलायुधः । तस्य तळं । अखिलम् । प्रहस्तमभ्यस्तमिति यावत् । एव. म्भूतं भुवनतलं । यत्प्रसादतः यस्या अनुग्रहेण । पक्षे य स्या नद्याः स्वच्छभावतः । करबदरसरशं हस्तस्थितबदरफलतुल्यम् । पक्षे कंजर रखोबीजम् । उदीच्यानां बवयोरभेदः । दरः ईषदित्यर्थः। जललवस्येषत्सदृशम् । पश्यन्ति जानन्ति स्वच्छतया अल्पं जानन्तीत्यर्थः ॥
End:
अस्तं नाशं अन्तो नाशो अस्तोऽस्मीति सम्बन्धः। शापितमकरोदिति । कन्दर्यकेतुरिति । समं सह स्वपुरं पाटली. पुत्रं नाम नगरं प्रविश्याभिलषितानि ताभ्यां सहानुभवन् कालं निनायेति सम्बन्धः ।।
For Private and Personal Use Only