________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3014
A DESORIPTIVE OATALOQUE OF
श्रीमाजगद्धर इमां वितनोति टीका
गूढार्थबोधनिपुणां भरतादिविज्ञः ॥ २ ॥ इह खलु निष्प्रत्यूहसमीहित फलप्राप्तिमत्यर्थमर्थी कविकुलकुमुदवन्धुः सुपन्धुः वागधिदेवताकीर्तनरूपं मङ्गलमादौ निवनाति ।
॥ करबदरेत्यादि ॥ सा सरस्वती वागघिदेवता जयति । उत्कर्षेण वर्तते । कीरशी देवी देवनं देवः । "दिवु क्रीडाविजिगीषा व्यवहारयुतिस्तुतिभोदमदस्वमकान्तिगतिषु"। भावे घम् । तद्योगादर्श आधच। ततो पोरादि डीए । तेन कान्तिमतीत्यर्थः । सा का। यत्प्रसादतः यस्यानुग्रहात् । कवयः काव्यकर्तारः । अखिलं समस्तं भवनतलं करबदरसदृशं पश्यन्ति समस्तभुवनमध्यवर्ती पदार्थजातप्रत्याकलनेन हस्तस्थितबदरीफलतुल्यं ध्रुवनतलमवलोकयन्ति । तलशब्दोऽत्र स्वरूपवचनः । तथा चामरः । " स्वरूपानूयोस्स्थलम्" इति । अत एव वचनरचनाचातुर्य वागधिदेवतासकाशादर्जात इति तदीयस्तुतिरुचितैवेति भावः। कीदृशाः? सूक्षामतयः कुशाग्रबुद्धयः । अत्र भगवत्या एव प्रसादो हेतुः। युक्तचैतत् । “कवयः किं न पश्यन्ति" इति वचनादित्येकोऽर्थः
द्वितीयोऽर्थस्तु-सरस्वति समुद्रे । सा ई देवी लक्ष्मीः जयति जययुक्ता भवति ।
For Private and Personal Use Only