________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2994
A DESORIPTIVE CATALOGUJ OF ण्डलुण्ठितसुभटपिहितवण्डासु रिपुपताकिनीषु शूरशिरच्छे. दमादधानः कदाचित्काञ्चनशृङ्गप्रेरितकुङ्कुमजलधाराहति कणितापाङ्गाभिरङ्गनाभिः सह समन्तादुत्तटतरङ्गपटलमपविद्धपङ्कजवनमुद्धृतवीणादण्डं विदलितकुवलय जातं विद्रुममरालयूथमखिलमपि जलक्रीडया केलिसरः सलिलमालोडयन् कदाचिदतिकराल-शस्त्रव्रणोदीर्घरुधिरवृष्टिरुद्दृष्टिपथैः वृष्णिकुमारसहस्त्रैः सार्धमुत्पथप्रधावितुरगषमपातितातपत्रशतमुन्मूलितकरिविषाणपरिषं शकलितशस्त्रनिकार्य प्रबलायितभूमिपालकुलमहितबलं क्रपेण विक्षोभयन् * * कदाचित्सव्यसाचिविरचितेषु वृकोदरारब्ध.. मुखरोद. रेषु शरकूटेषु कौरवकबन्धताण्डवानि पश्यन् यथामति सु. मनोगणस्तूयमान गुणराशिरमजत महान्तमानन्दम् ॥
इत्यगस्त्यकृतिः कृष्णचरितं समाप्तम् ।। श्रवः शूलस्थूलं करणभणितिप्रन्थिनिपुणैः
कविर्मन्यैरन्यैः किमिह बहुरोमन्थहरिणैः । विमर्शादर्शान्तः प्रतिकलदलकाररचनै.
रगस्त्यः पौरस्त्या ननु सरति सूक्तैः सुमनसः ॥ अनाहत्य श्लाघ्यान्भुवि कविनिवन्धनामिरति
कृतो वैयासिक्या रचयितुरगस्त्यस्य विदुषः । वसन्ती वाग्देवी कृतिनिरसनाने वितनुते
न पर्यई परुहि महति शके विहरणम् ॥
Colophon:
For Private and Personal Use Only