________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achary
2967
SANSKRIT MANUBORITI (शिष्टो होसनिकर्नाटजातीयः सर्वशास्त्रवित् ।) नीतिमार्गेण राजानं तत्तत्कालेष्वचोदयत् । कदाचिद्वाळको राजा मेलयित्वा बहून् खलान् ॥ ५॥ खेलन्तैः सर्वदा जग्धो न शुश्राव हितं वचः । तेभ्यो निवर्तयन्भूपं सन्मार्गे सम्प्रवर्तयन् ।। ६ ।। महिपन्याजतो राजबुद्धिञ्चक्रे सुनिर्मलाम् । तस्य नप्ता माधवार्यपौत्रः श्रीनरसिंहतः ॥ ७ ॥ वाञ्छेश्वरो लब्धजन्मा पितृप्रोक्तेन वर्त्मना। व्याख्यास्ये तं प्रणम्यैतन्माहिषं शतकं मुदा ॥ ८ ॥
अथात्रभवान् श्रीविश्वेश्वरकविः " काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवतरक्षतये । सद्यः परनिईतये कान्तासम्मिततयोपदेशयुजे॥" इत्यभियुक्तोक्तिप्रामाण्याकाव्यस्यानेकश्रेयःसाधनतां " काव्यालापांश्च वर्जयेत् " इति निषेधस्यासत्काव्यविषयताञ्च पश्यन् स्वीयग्रन्थस्योपनिषत्प्रतिपादाद्वितीयात्मप्रतिपादनद्वारा निःश्रेयसोपयोगिनां तत्र तत्र प्रकटयिष्यन् महिषप्रवन्धं महाकाव्यचिकीर्षुश्विकीर्षितान्तरापनिरन्तरोपाशान्तये चिरन्तनसमागतसम्प्रदायानुवृत्तिलक्षणफलसाधनत्वात् “आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम्" इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वादाशीनिर्देशमुखेन प्रवन्धतात्पर्यविषयी
871
For Private and Personal Use Only