________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2951
SANSKRIT MANUSORIPTE सिन्दूराणां रेणुः सान्द्रशासौ सिन्दूररेणुश्च तं सान्द्रसिन्दररेणुम् । “रेणुर्द्वयोः स्त्रियां धूलिः" इत्यमरः । दधताधारयन्त इव रक्ताः लोहिताः । उदयत्यस्मादस्मिन् वा उदयः । उदयश्चासौ गिरिश्च उदयगिरिः उदयपर्वतः। तस्य तय्यः(१)वप्राः । तासु धावतः गैरिकाणि तेषु धाराः तासां द्रवस्य । सिक्ता इव क्षालिता इव । अत्रापि रक्ता इव सम्पयते । तुल्यः समानः कालो यस्मिन् कर्मणि तत्तुल्यकालः । आयान्त्या आविर्भवन्त्या कमलानि पद्मानि तेषां वनं तस्य रुग्दीप्तिस्त्या कमलपनरुवा । अरुणास्ताम्राः भुवनं लोकं भासयन्तः । एकवचनमुपलक्षणम् । भुवनानि भासयन्तीत्यर्थः । अभिनवाः प्रत्यग्राः। भानोरिमे मानवीयाः सूर्यसम्बन्धिनः । भानुशब्दम्य अ...शः भानवोश्मयः वः युष्माकं श्रियै भूत्यै भूयासुः ॥ १॥
End:
___किमयं तस्मात् विश्वस्याधि देवतः किम्बान्धवः स्वजनः अथ वा प्रियाहत् इष्टभित्रम् । आहस्विदिति पक्षपातान्तरपरिग्रहे । आचार्यः हितोपदेष्टा । रक्षणं योगक्षेमः । चक्षु. र्नु नेत्रम् । नुशब्दो वितर्के । दीपो नु उत गुरु ज्येष्ठादिः आहोस्विर जनमः पिता एव स्वजीवितं प्राणः उत बीजं उत्पत्तिहेतुः उत बीजा अन्तः शक्तिः एवं को वेति न निर्णीयते न निश्चीयते । सूर्यः
For Private and Personal Use Only