________________
Shri Mahavir Jain Aradhana Kendra
Beginning:
www.kobatirth.org
SANSKRIT MANUSCRIPTS
Colophom :
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणेशाय नमः ||
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ वारिनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ १ ॥ यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथुपदिष्टां दुदुहुर्धरित्रीम् ॥ २ ॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एकोहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ ३ ॥ यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्विभर्ति । बलाइकच्छेदविभक्तरागामकालसन्ध्यामित्र धातुमताम् ॥ ४ ॥
End:
स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः । दर्शन प्रणमिनामदृश्यतामाजगाम विजयानिवेदितः ॥ ९० ॥ समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः
तमगमतून सार्धमेका निशेव ।
स च सुरतसुखैर्न छिन्नतृष्णो बभूव
ज्वलन व समुद्रान्तर्गतस्तज्जलौघैः ॥ ९१ ॥
2441
इति श्रीकालिदासस्य कृतौ कुमारसम्भवे
महाकाव्ये अष्टमस्सर्गः ॥ ८ ॥
शके १७३४ अङ्गिरोदे मार्गशीर्षे कृष्णचतुर्दश्यां भृगोर्दिने महाराजाश्रितेन गुण्डभट्टनाम्ना लिखितोऽयं ग्रन्थः ||
For Private and Personal Use Only
Subject: Kumārasambhavam. 1-8 Sargas only. Remarks:-The Ms. is in excellent condition. This Ms. is dated
A. D. 1812.