________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2429
SANSKRIT MANUSORIPTI मल्लिनाथकविस्सोयं मन्दात्मानुजिघृक्षया । व्याचश्वे काळिदासीयं काव्यत्रयमनाकुलम् ॥ ५॥ कालिदासगिरी सारं कालिदासः सरस्वती । चतुर्मुखोऽथवा साक्षाद्विदुर्नान्ये तु मादृशाः ॥ ६ ॥ तथापि दक्षिणावर्तनाथायैः क्षुण्णवर्त्मनः । वयं च कालिदासोक्तिप्वकाशं लभेमहि ।। ७ ॥ भारती कालिदासस्य दुख्यिाविषमूञ्छिता । एषा सञ्जीवनी टीका तो सद्योज्जीवयिष्यति ॥ ८ ॥ इहान्वयमुखेनैव सर्व व्याख्यायते मया । नामूलं लिख्यते किश्चिन्नानपेक्षितमुच्यते ॥ ९॥
इह खलु सकलकविकुलशिरोमणिः कालिदासः "काव्यं यशसेऽर्थकते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वतये कान्तासम्मिततयोपदेश यूजे ॥" इत्याद्यालङ्कारिकवचनप्रामाण्यात्काव्यस्याने कश्रेयस्साधनताम, "काव्यालापांच वर्जयेत् " इति शास्त्रस्यासत्काव्यविषयतां च पश्यत्रघुवंशाख्यं महाकाव्यं चिकीर्षुः चिकीर्षितार्थाविघ्नपरिसमा. प्तिसम्प्रदायाविच्छेदलक्षणफलसाधनभूतविशिष्टदेवतानम - स्कारस्थ शिष्टाचारपरिप्राप्तत्वात् "आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्" इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात्काव्यनिर्माणस्य विशेष (विशिष्ट) शब्दार्थप्रति पत्तिमूलत्वेन विशिष्टशब्दार्थयोश्च "शब्दजातमशेषन्तु असे शर्वस्य वल्लभा । अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशे
805
For Private and Personal Use Only