________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SANSKRIT MANUSCRIPTS
इह खलु " काव्यं यशसेऽर्थकते" इत्याद्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेकपःसाधनत्वेन प्रतिपादितस्वात्काव्यमारभमाणः कविः " आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् " इति च वचनादाशीरचनामारचयति । वैनायक्य इति ।
वैनापक्याश्रयेक्ष्याङ्कावासिनागघृती रसात् । भवतां भद्रमात्तां पार्वतीपरमेश्वरौ ॥
वैनायक्या विनायकस्य गणपतेः सम्बन्धिन्या श्रिया शोभया ईक्ष्याङ्का दर्शनीयोत्सङ्गा वासितागधृतिः वासिता परिचिता अगस्य पर्वतस्य हिमवतः धृतिः प्रीतिः यथा सा तथोक्ता । " धृतिर्योगान्तरे धैर्ये धारणे प्रीतिसौख्ययोः” इति नानार्थरत्नमाला | औ रुद्रे रसाद्रागात् । ल्यबलोपे पञ्चमी । रसं प्राप्येत्यर्थः । ईश्वरा । "स्थेशभास" इत्यादिना वरच् प्रत्ययः । पार्वती पर्वतराजपुत्री
गौरी । भवतां भद्रमाधत्ताम् कुरुताम् 'दुधान धारणपोषणयोः" इति धातोर्लोटि आत्मनेपदेकवचनम् । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः " उकारश्शम्भुः " इत्यमरः इत्थेकाक्षरकोशः द्विवचनप्रतिपादनेऽर्थे । वैनायक्याः श्रिया ईक्ष्याङ्क प्रेक्ष्पोत्सङ्गी रसादासितागधृतिः आसिता आबद्धा अगदयोः हिमवन्मेर्वोर्धृतिः तौ तथोतौ । पार्वतीपरमेश्वरौ भद्रमाधवां कुर्वातामिति लोटि परस्मैपदद्विवचनम् ।
...*
1000
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
66
2849