SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2812 A DEBORITVE OATALOQUE OP चन्द्ररूपां चन्द्रं वा बिम्बरूपां सततं सदा नमामि, यस्य चन्द्रस्य उदयात् वारिधिः वृद्धिमुपैति । सुधान्धसो देवाः यस्य कलामेव चन्द्रिकां चारु सम्यक् पीत्वा चकोरा इव जीवन्ति । अत्र देवानां चकोरसाहश्यवर्णनादुपमालङ्कृतिः। सा चकोराणां उपमानानां देवानामुपमेयाना इवशन्दस्योपमावाचकः स जीवनस्य साधारणधर्मस्येति चतुर्णामुपादानात्पूर्णा । “स्वतस्सिद्धेन भिलेन सम्मतेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यञ्चेदेकदोपमा" इति लक्षणात् । इयञ्चोपमा प्रस्तुतगोचरेति नवीनाः । वर्ण्यमानचन्द्रानुग्राह्यत्वेन चकोराणामिति प्रस्तुतत्वम् । “अवर्ण्यमेवोपमानम्” इति वदतां एतादृशस्थले गम्यमानसादृश्यात्तुल्ययो. गितेत्यङ्गीकुर्वतां इवशब्दस्य गम्यमानसाधानुवादकत्वं कल्पयतां प्राचां महाप्रयास एवेति समुद्रस्याभिवृद्धत्वेन महतां देवानामपि संरक्षकत्वेन वर्णनात् महदुपसर्जनरूपः कलासमृद्धिमत्वेन समृद्धिरूपश्चेति द्विविधोप्युदात्तालङ्कारः। "उदात्तमृद्धचरितं श्लाघ्यञ्चान्योपलक्षणम्” इति जय देववचनात् । यस्येति यच्छब्दस्य उत्तरवाक्यगतत्वेन तच्छन्दाभावप्रयुक्तो न न्यूनपदत्वदोषः । असिन सगें प्राय इन्दुवंशवृत्तम् । “स्यादिन्दुवंशा ततजारसंयुता" इति लक्षणात् । तगणस्य निष्फलकत्वेऽपि सोमस्येति देव्या वाचकशब्दस्योपमानान्न दोषः । “देवतावाचकाः शब्दा ये च मदादिवाचकाः । ते सर्वे नैव निन्याः स्युलि. पितो गणतोऽपि च" इति वचनात् । सकारोपरि ॐ. For Private and Personal Use Only
SR No.020231
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 06
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages490
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy