________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
BANSKRIT MANUSCRIPTS
End:
निर्वापयति कुमारे
सगिरिसुतो जयति सस्मितश्शम्भुः ॥ १ ॥
हृदयेति । हे हृदय हे चिच सदा सर्वकालं सर्वावस्थायां च दुरासदायाः दुस्सहायाः पापानामटव्याः अरण्यस्य दवतो दवाशेः " दवदावी बनानले " इति हैमः । सार्वविभक्तिकस्तसिः । " अटव्यरण्यं विपिनम् " ।
Acharya Shri Kailassagarsuri Gyanmandir
इत्यमरः । तथा अरीणां शत्रूणां समुदायात् त्रिजगत् त्रैलोक्यं अवतः रक्षकात् । अवतेः शतृप्रत्ययः । दायो विभक्तम्यपि द्रव्यम् । “दायो दाने यौवतकादिधने (१) सोल्लुण्ठभाषणे । विभक्तन्यपितृद्रव्ये " इति हैमः । तमादत्ते गृह्णाति । स दायादः स्मरेण प्रद्युम्नेन दायादवतः सुतवतः । " दायादौ सुतसपिण्डौ " इति हैमः । यादवतः कृष्णात् मागाः मा गच्छ । तत्रैव निरन्तरं बसेत्यर्थः ॥ १ ॥
शशिनेति ॥ शशिना चन्द्रेण समहा समहाः हासअ महम हासमहसी समे हासमहसी हास्य तेजसी यस्याः समासोत्सवा । " महस्ते जम्युत्सवे च " इति हैमः । सुरया शोभनवेगा जनता जनसमूहः नगरे नळपुरे सुदं हर्षे सहास्त सम्यक्प्राप । जिहातेर्लुङ्ग । अपि च भासुरदीप्यमानया सुरया व्यहरत् चिक्रीड । अपि च सुरयागं देवयजनं देवार्चनं वा व्यतनोत् अकरोत् । अपिः सम्भावनाशङ्का गर्हणासु समुच्चये " इति हैमः । वोटक
66
For Private and Personal Use Only
2799