________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUBORITI
2778
पराक्रमं मुरारातेराकर्ण्य परमं प्रभुः । शश्वदश्वापत प्रीत्या मन्दान्दोलितकुण्डलः ॥ २९ ॥ तथा कृत्वा कथां श्रुत्वा तं भक्तिभरनिर्भरः । प्राहम श्रीविरूपाक्षः प्रणयी माधवप्रभुम् ॥ ३० ॥ माधवार्य त्वया धीर माधवे भक्तिशालिना। काव्यं कविमुदे भौमेर्विजयाख्यं प्रणीयताम् ।। ३१ ॥ भवदाननपूर्णेन्दु भवेयं भगवत्कथा । कौमुदीव चकोराणां कौतुकायास्तु धीपताम् ॥ ३२ ॥ श्रुत्वेति वचनं तस्य श्रीमाधवविभुः सुधीः । तत्प्रीतिमनुरुन्धानस्तथेति प्रत्यपद्यत ॥ ३३ ॥ अकार्षीच नवं काव्यमव्याजमधुरोज्वलम् । स भोमविजयं नाम सतां कण्ठरसायनम् ॥ ३४ ॥ माधवस्य कृतिः सैषा महनीयपरिष्कृतिः । माननीयगुणा भाति मानिनीयरसोत्तरा ॥ ३५ ॥ वन्दे वाग्दैवतं धाम मोहान्धतमसापहम् । इन्धे यस्य परिस्पन्दो विभिन्दनञ्जसा जवात् ।। ३६ ।। वन्दे दन्तावलमुखं घाम वन्यं सुरासुरैः। समीहितार्थप्रत्यूहव्यपोहविहितोद्यमम् ॥ ३७ ॥ वन्दे तं देवकीसूनुं वल्लवीजनवल्लभम् । मुदं वृन्दावने धत्ते मुनिवृन्दावनेऽपि यः ॥ ३८ ॥ कुशलानि विधेयादः कुहनाशैशवं हरेः । मायाशक्तिसमुल्लासविकासिपदपल्लवम् ॥ ३९ ॥
348
For Private and Personal Use Only