________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUBORITTI
2988
अत्र घेङ्कटेश्वरनामा महाकविः स्वमप्रसन्नभ्रमराम्बिकावरप्रसादलब्धसहजसारस्वतचित्रवन्धरामायणारूयं काव्यं व्याचिकीर्षुः “काव्यं यशसेऽर्थकते” इत्यालङ्कारिकपरिपाटीमनुसरन् "काव्यालापांश्च वर्जयेत् " इत्यस्यासत्काव्यविषयतां च पश्यन् चिकीर्षिता काव्य स्य निर्विघ्नपरिसमाप्त्यर्थं प्रचयगमनाय च खेष्टदेवता प्रार्थनारूपं मालमादावाचरति ॥
लक्ष्मीति ॥ ते वक्ष्यमाणमहिमसम्पना लक्ष्मीकटाक्षाः मयि समन्ततः प्रसरन्तु । तेषां सामर्थ्यमेव प्रकटयति ॥ येषामिति ॥ येषां लक्ष्मीकटाक्षाणां महिना जनार्दनोऽपि जगतामीश्वरोऽभूत् , किं पुनः ब्रह्मेन्द्रादय इति भावः । इदं काव्यं वेङ्कटेशेन कविना काव्यादिश्लोके सर्गान्तश्लोकेषु च लक्ष्मीपदाकितं कृतमिति बोध्यम् ॥१॥
End:
वक्त्र इति ॥ हनूमान् तदा नियोगसमये वक्त्रे विकचाना पाटलानां पनानां लक्ष्मी दधत् दधानस्सन् । अने. न हर्षादयो व्यज्यन्ते । रत्नाकरस्य समुद्रस्य तरणाय शिखरीन्द्राणां पर्वतश्रेष्ठानां पर्वतश्रेष्ठं महेन्द्रं पूषा सूर्यः अम्बरस्याकाशस्य लङ्घनायोदयाचलमिव आरोहति स्म आरूढवान् । रोहतेः " लट् स्मे" इति भूने लट् । उपमालङ्कारः ॥ ६८॥ Colophon : इति श्रीचरकूरिकोण्डभड्वोपाध्यायतनय श्रीयज्ञनारायणभट्ट
For Private and Personal Use Only