________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSCRIPTS
2708
सत्यासो बुधकुल मौळियन्धुरोज
श्रीरामस्तुतगुरुमाननाब्जहंसः ॥१॥ उदयां उद्भतशुभविधिम् । गां वाणीम् । रसनया जिह्वया दधानः । गेयः स्तुत्यः । सत्याप्तः सत्यलोकाप्तः । बुधकुलमौलिषु विद्गणावतंसेषु देवकुलश्रेष्ठेषु च । बन्धुरः मनोहरः। श्रिया रामश्चारुः स्तुतौ गुरुमाननौ गुरुसत्कारौ अजहंसौ यस्य सः । अजः ब्रह्मा । वः युष्माकम् । अन्तरले हृदि । सर्वदा वाचं रचयतु वासयतामित्यर्थः॥
इष्टदेवतानमस्कारपूर्वक चिकीर्षितं प्रबन्धमर्थाभिधा. नात्प्रागल्भ्यकथनादेवासाधारणं वदन् प्रतिजानीते ॥ विधायति ॥ विधाय कमलेक्षणं विशदसारसारस्वत
प्रवाहवरभूषणं हृदि सुभासि बागीश्वरम् । करोति परमा लमरसुरसभासुरार्थ जयस्कथात्रपि चिदम्बरः एतनु काव्यरनं बुधः ॥२॥
प्रतिपाद्याः कथा विवृण्वनुदारतत्सारस्वारस्येन स्वप्रबन्धस्य विद्वज्जनादरणीयत्वं प्रार्थयते ।। अस्त्विति ॥ अस्तु रसेन सदाशयतुष्ट्ये नीस्तुलसारमिदं निभृतेन ।
For Private and Personal Use Only