________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2681
SANSKRIT MANOSOMITI शन्दे च" इत्यतो लटि उत्तमपुरुषस्यैकवचनस्येदं रूपम् । प्रसन्नतयावस्थितस्यैव नमनमभीष्टकारीत्यतस्तं तथा वि. शिनष्टि । शुभवक्त्रचन्द्रमिति। वक्त्रं चन्द्र इव वक्त्रचन्द्रः शुभः वक्त्रचन्द्र यस्य स तथोक्तः । तं निर्धारितस्वरूपस्यैव नमनं फलदं निर्धारणश्च लक्षणेनेत्याशयेनोक्तम्। गुणोघयुकम् । गुणानां ज्ञानानां हरिगुणानां ओपेन समुदायेन “ स्तो. मोनिकरत्रातबारसङ्घातसञ्चवाः । समुदायः” इत्यमरः। सान्द्र निविडं अनेन कल्याण गुणपूर्णत्वं तस्य लक्षणमित्युक्तं भवति । रमादीनां विद्यमानत्वादस्यैव नमनहेतुरित्युक्तम् ॥ जनकेति ॥ जनकस्य तन्नामक राजस्यात्मजायाः पुत्र्याः सीताया इन्द्रं पतित्वेन श्रेष्ठमित्यर्थः, सीताया रमारूपत्वात्तत्पतित्वेन तस्यापि श्रेष्ठत्वात् तन्त्रमनं युक्तमिति भावः । यत्र गुणस्तत्र दोषः इति व्याप्तिस्तु ......... इति श्रुतेः भगवदतिरिक्तविषयिणात्याशयेनोक्तम् । निरस्तचन्द्रामिति । निराकृतलक्ष्म्याधुपललिताशेषशेषमित्यर्थः । निरवधिकवैरिक्ष्मापपादनायोकम्-वीन्द्रमिति ॥ विगत इन्द्रः श्रेष्ठ यस्य तं निरव धिकोत्तरमित्यर्थः । गुणौघेत्युक्तं किञ्चिद्विवृणोतिधनुर्धरेन्द्र त्रिजगन्नरेन्द्रामिति ॥ अनायेन पराक्रमलक्षणो द्वितीयेन स्वातन्त्र्लक्षणगुणो वर्णितो भवति । सर्वजमदाचकस्य स्वातन्त्र्ये नियमार्थः । अस्य श्लोकस्य
For Private and Personal Use Only