________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSORTI
3660
तातकाढण्यसम्प्राप्तशानभक्तिरसामृतम् । यतिराजाहयं बन्दे देशिकं दिव्यदर्शनम् ॥ २ ॥ यतिराजगुरोः सूनुं पापण्डमतखण्डनम् । आचार्य पद्मनाभाल्यं भवसन्तारकं भजे ॥ ३ ॥ नमो रामानुजार्याय वेदान्तार्थप्रदायिने । आवेयपद्मनाभार्यसुताय गुणशालिने ॥ ५ ॥ रामानुजार्यसम्प्राप्तसर्वविद्यासमृद्धये । पद्मनाभाय महते तत्सुताय नमो नमः ॥ ५ ॥ पद्मनाभगुरोः सूनुं तत्कृपावाप्तवैभवम् । पुरुषोत्तममाचार्य गुणसिन्धुमुपास्महे ॥ ६ ॥ तातपादत्यापावं मायावादतमोरविम् । व्याख्यातन्यायकुलिशं नरसिंहार्यमाश्रये ॥ ॥ नृसिंहदेशिकावाप्तज्ञानविज्ञानसम्पदे । आत्रेयशठकोपाय नमो वैराग्यसिन्धवे ॥ ८॥ श्रीशठकोपपदाम्बुजमुझं तत्करुणेक्षणलम्भितबोधम् । देशिकमत्रिकुलाम्बुधिचन्द्रं नौमि नृसिंहमनन्तगुणान्धिम् ॥९॥ श्रीमन्नृसिंहार्यसुतं महान्तं वेदान्तधुर्य व्यवहारशीलम् । पाचगरहेतुं करुणापयोधि वन्दे वदान्यं पुरुषोत्तमार्यम् ॥ १०॥ पुरुषोत्तमपादाजसेवासंप्राप्तसम्पदे । नमः श्रीवेङ्कटेशाय गुरवे मक्तिसिन्धके ।। ११ ॥ पराहशशठारातिकृपासंप्राप्त सम्पदम् ।
For Private and Personal Use Only