________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2661
BANSKRIT MANUBOADS भूरिप्रदा बहुधना हुतवाजपेया
स्तं ब्राह्मणा मुमुदिरे परिशीलयन्तः ॥ १५०॥ प्रणिहितनियमानां ब्राह्मणानां प्रसङ्गै
विकलविधनवृद्धाभीष्टदानोत्सवैश्च । अनुदिनमखिलानामन्तरात्मेव हृयो
जनकनृपतिपुत्र्या राघवोऽरक्षदुर्वीम् ।। १५१ ॥ इत्थं रघूद्वहपदाब्जयुगं प्रपत्र
स्तत्प्रेरणेन विलसत्करुणोदितेन । काव्यं विदेहतनयाकुशलोक्तिभव्यं
श्रीवेङ्कटेशकविरातनुतात्मलब्ध्यै ॥ १५२ १ इदं मे वैदेहीपरिवृढदयादिव्यतटिनी
परीवाहाकारं प्रतिपदसमग्रस्फुटरसम् । कथं काव्यं भव्यं कलिकलुषितैरप्यकरुणै__ रमृष्य(दृष्यं वा)रचितरघुनाथावमतिभिः ॥१५३॥ वेदपूर्णगुणपावकपचं
व्योमवह्निसमसर्गमुदारम् । काव्यमङ्गगुणशैलयुगाब्दे
वेङ्कटोऽकृत कलौ कविवर्यः ॥ १५४ ॥ पत्रिंशदत्र वृत्तानि छन्दांसि तु चतुर्दश । खार्कप्राणा इह श्लोका अनुष्टुप्संख्यया मताः ॥१५५ ॥ आत्रेयः श्रीनिवासाहयगुरुतनयः काव्यरत्नं व्यतानीत् सीतानाथप्रसादप्रकटितधिषणो रामचन्द्रोदयाख्यम् ।
For Private and Personal Use Only