________________
Shri Mahavir Jain Aradhana Kendra
2640
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
*
Acharya Shri Kailassagarsuri Gyanmandir
मणिभूषितभूषणो महाही -
मवनीपालमणिः सत्रामयासीत् ॥ ८५ ॥
आसीताद्रीन्द्रसेतुक्षितितल वलय । यातराजन्य जात
प्राञ्चत्कोटी र कोटी प्रगुणमणिगणप्रांशुदीप्रांशुदीजै ।
आरादारावितातिस्फुटपदकटकोतमातो रघूणां
नेता त्रेता वदेतां क्षितिमिह रघुनाथेन्दुरिन्धेऽभिरक्षन् ॥
आचन्द्रमतुलं रघुनाथभूपे
विश्वम्भरामवति विश्वजनीन कीर्ती ।
आसन्प्रजा गजतुरङ्गमहाटकाङ्क
पर्यङ्ककामकुटकुण्डलभासमानाः ॥ ८८ ॥
अधिकश्रियमच्युतेन्द्रसूनुं
रघुनाथं रघुनाथमेव साक्षात् । हृदये कलयन्ति ये महान्तः
परमानन्दभरात एव धन्याः ॥ ८९ ॥
Colophon :
इति श्रीराम भद्रकरुणाकटाक्षलब्घ मारसारस्वतप्रवर्धमानशत लेखिनी (सम) समय लोखनीयाष्ट्रभाषाकल्पित चतुर्विधकवितानुप्राणितसाहित्यसाम्राज्यभद्रपठारूढरामभद्राम्याविरांचेते रघुनाथाभ्युदये महाकाव्ये द्वादशः सर्गः ॥
श्रीरङ्गपतये नमः ॥ शिवाय परमगुरवे नमः ॥ Eastern नमः | श्रीरामचन्द्रार्पणमस्तु ||
For Private and Personal Use Only