SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUBORISTS 2635 शारदा नौमि शब्दार्थज्योतिरुद्गमनारणिम् । देवीं कवीन्द्ररसनारङ्गमङ्गलनर्तकीम् ॥ २॥ कौस्तुभाभरणन्धाम कल्याणानि करोतु वः। यस्य दोरन्तराम्लः प्रथमेतन(?)रदाश्रमम् ॥ ३ ॥ जयन्ति सन्तः कवयो दिग्विजृम्भितकीर्तयः । कर्णावतंसतामति सतां यत्सूक्तिमञ्जरी ॥ ४ ॥ वाणी महाकवीन्द्राणां कापि माणिक्यदीपिका । धुनाना जगदज्ञानध्वान्तमिन्धे स्वतेजसा ॥ ५ ॥ आननेन्दुसमुद्भता कवेरमृतशीतला । कस्य वा न सुखं कुर्यात्कविता चापि कौमुदी ॥ ६ ॥ वन्धः कस्य न वाल्मीकिः यस्य वामधुनः कणान् । आदाय कवयोऽद्यापि निक्षिपन्ति स्वसूक्तिषु ॥ ७॥ सुधाया वाक्सुधायाश्च वाल्मीकेर्वदनार्णवात् । वक्त्रैः सुमनसः पूर्वी पिबन्ति श्रवणैः पराम् ।। ८ ॥ ब्रह्मणोऽपि महान्व्यासो ब्रह्मा ब्रह्माण्डसम्भवः । यत्प्रबन्धमा गम्भोधौ ब्रह्माण्डैर्बुदुदायितम् ॥ ९ ॥ परं प्रदीप्यते लोकैश्चन्द्रादर्काच भारतम् । तमो गृह्णाति चन्द्रार्को तभिगृहाति भारतम् ॥ १० ॥ कः कालिदासकविना कृतं कर्म करिष्यति । हनुमल्लचितं कोऽन्यो लज्ये(त्कपिरर्णवम् ।। ११ ।। बाणं सत्कविगीर्वाणमनुवनाति कः कविः । सिन्धुमन्धुकमन्वेति झुमणि वा तमामणिः ॥ १२ ॥ For Private and Personal Use Only
SR No.020231
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 06
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages490
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy