________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUHORKYTI
2809
अस्ति विद्यते। तमेव विशिनष्टि । यमिति । आप्त....................(वारिणि जले जायन्त इति वारिजा. नि पानि "सप्तम्यां जनेर्डः" इति डप्रत्ययः । तेषां श्रियं शोभामाहरति यस्तथोक्तः । स तं हर ... . स्थयः । शोभा सम्पत्तिः पद्मा सा लक्ष्मीः श्रीरिति गम्यते । शाश्वतः। चन्द्रस्य पत्रवैरित्वं लोकप्रसिद्धिमङ्गीकृत्यैवमुक्तम् ।
__ “यत्राभिप्रायगर्भा स्थाद्विशेषणपरम्परा । अत्राभिप्राय विदुषामसौ परिकरो मतः" इति लक्षणात् । वारिजश्रीहरमित्यत्र पदंगतो निदर्शनालङ्कारः । वारिजश्रियो नयने असम्भवान वारिजश्रीरिव वारिजश्रीरिति बिम्बप्रतिविम्बभावस्य गम्यत्वासम्भवात् धर्मयोगादुपमानोपमेययोः “प्रतिबिम्बक्रिया गम्या यत्र सास्यात्रिदर्शना" इति लक्षणात् परिकरनिदर्शनालङ्कारयोस्तिलत. ण्डुलवत् संसृष्टिः । इतः परमलङ्काराः ग्रन्थविस्तारानो. च्यन्ते । काव्यादावकारप्रयोगः प्रीतिकर इत्यकारः प्रयुक्तः । तदुक्तम् । “प्रीतिमकारस्तनुते यदि न ब्रूते निषेधार्थम्" इति । लक्ष्मीकरत्वादादौ तगणः प्रयुक्तः। तदुक्तम् “ततो लक्ष्मी तनुते" इति । आमनन्ति-"म्ना अभ्यासे" इत्यस्य धातोलिटि शपि “पाघ्रामास्थाम्नादाण् दृश्यति पर्तिशदसदा पिबाजघ्रधमतिष्ठमनयच्छपश्य धौशीयसीदाः" इति मादेशः।
For Private and Personal Use Only