________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BANSKRIT MANUSCRIPTS
2697
End:
स तं जगादार्य न वेत्सि कार्य
द्विषद्गतश्रीहरणप्रणिौ। भीमार्जुनौ ते सहजो विहाय
कथं सपत्नीसुतमिच्छसीति ॥ १०१ ॥ कुन्त्यां यथा भद्र ममास्ति भक्ति
स्तथैव माद्यामपि निर्विशेषा । जीवामि मे मातुरहं ततदस्यां
जीवत्वसावित्यवदत्स यक्षम् ॥ १०२ ॥ धर्मोऽहमस्ति तव वेदितुमानृशंसं ___ यातो मृगत्वमरणिं हृतवान्द्विजाते। सर्वेऽप्यमी त्वदनुजा मदनुग्रहेण
जीवन्त्विति प्रमदवानपदत्स दिव्यम् ॥ १०३ ॥ तीरातेषु समुत्थितेषु सहसा सुप्तप्रबुद्धष्विव
प्रीतं विसयिनं च पुत्रमवदत् भूयोऽपि धर्मस्तदा । इष्ट रूपमयत्नमेव दधनो भूभ्ना प्रसादस्य मे - भूमौ कश्चिदपि त्रयोदशमिमं वर्ष न जानातु वः ॥ इत्युक्तवत्यरणिमाशु वितीर्य तस्मि
नन्तर्हिते सवितरीव दिनावसाने । वैतानहव्यवहधूममिलतमित्रं
पार्थास्तपोवनमवापुरवातहर्षाः ॥ १०५ ॥ Colophon:
इत्यगस्त्यकृती बालभारते नवमः सर्गः ॥ हरिः ॐ । श्रीसरस्वत्यै नमः । श्रीसाम्बसदाशिवार्पणमस्तु ॥ 326
For Private and Personal Use Only