________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUBORIPTI
2596 विरताविति मारुतेगिरी
पितरं न्याहरदुत्तरो वचः। युधि देवसुतः स एष मा
सुकृती मोचितवान्भयादिति ॥ ८३ ॥ स तु मात्स्यपतिर्यथोचितं
सदकान्मुिदितः पृथासुतान् । अदिशद्विजयाय चोरी
वशिने सा जगृहे स्नुषामुना ॥ ८४ ॥ अथ दूतनिवेदितोदयास्ता
न्हरिरागत्य कृती स भागिनेयः । वसु वृष्टिमिराततान पूर्णा
स्तनयित्नुर्नभसि इदानिवाद्भिः ॥ ८५ ॥ द्रुपदमागधकेकयाषिप
प्रभृतिषु सम्मिलितेषु बन्धुषु । दुहितरमभिमन्यवे ददौ
महितपणेऽहनि मात्स्यभूपतिः ॥ ८६ ॥ धौम्येन तस्य मिथुनस्य वनागतेन
निर्वर्तिते परिणये विधिवत्प्रहृष्टाः । साकं मुकुन्दमुखबन्धुजनेन प्रार्था
मात्स्यस्य सअनि सुखं न्यबसन्प्रतीताः ॥ ८७ ॥ Colophon:
इति श्रीगदगस्त्यपण्डितकृती बालभारते एकादशः सर्गः ॥
For Private and Personal Use Only