________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSOBIPTS
2591
अजायतास्मादनघो ययातिः
पेष्टुं द्विषामुचलितस्य यस्य । नभस्युदीर्णो बलरेणुरासी
द्धनो यशः केतकजन्महेतुः ॥ ८॥ पुण्यैस्सुतस्तस्य बभूव पूरुः
शापोपन्ना भृगुजन्मनो (क्रोधोदितां दैत्यपुरोधसोया)। पितुर्निदेशाभिजवंशलक्ष्म्या
प्रागेव जग्राह जरा प्रष्टः ॥९॥ तदन्वयोदन्वति जन्मभाजा.
मुदग्रतेजोभृतदिङ्मुखानाम् । मध्ये बहूनां भरतः प्रतीतो राज्ञां
मणीनामिव कौस्तुभोऽभूत् ॥ १० ॥ सेनासु येनासुरनायकानां
नीतासु शान्ति निशितैः क्षुरप्रैः। शरासनं शातमखं नवाना
मम्भोमुचामाभरणं बभूव ॥ ११ ॥ गोत्रे तदीये महति प्रशस्ते
बभूव हस्ती बहुमान्यसत्वः । या शत्रुशुद्धान्तवधूमुखेषु
तमालपत्रापचयं वितेने ॥ १२ ॥ वस्वोकसाराममरावतीन
श्रीचारुताभ्यामतिवर्तमानम् ।
For Private and Personal Use Only