________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2582
End:
A DESORIPTIVE CATALOGUE OF स्वानि स्थानानि दिव्यानि प्रतिजग्मुर्मुदान्विताः ।। इति प्रह्लादविजये प्रथमोऽध्यायः ॥
श्रीपराशरः ॥ एवंप्रभावो दैत्येन्द्रो मैत्रेयोऽभून्महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥ यस्यैतचरितं तस्य प्रह्लादस्य महात्मनः । शृणोति तस्य पापानि सघो गच्छन्ति संक्षयम् ।। अहोरात्रकृतं पापं प्रह्लादचरितं नरः । शृण्वन् पठंश्च.......व्यपोहति न संशयः ।। पौर्णमास्याममावास्यामष्टम्यामथवा पठन् । द्वादश्यां वा वदामोति स प्रदानफलं नरः ।। प्रहादं सकलापत्सु यथा रक्षितवान्हरिः । सथा रक्षति यस्तस्य शृणोति चरितं नरः ।।
ब्रह्माण्डोचरभागे । य एनं शरणं यान्ति नरसिंहं भयागमे । नारसिंहस्त्वयं देवस्तं भयेभ्योऽपि रक्षति ।। उग्रोऽप्यनुग्र एवायं स्वभक्तानां नृकेसरी । केसरीव स्वभक्तानामन्येषामुग्रविग्रहः ।।
श्रीमागवते ॥ एतद्य आदिपुरुषस्य मृगेन्द्रलीला
दैत्येन्द्रयूथपवर्ष प्रयतः पठेत ।
For Private and Personal Use Only