________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSCRIPTS
2577
स्वानुरूपवरसम्प्रयुक्तया
विस्मरिष्यसि शुचं तनूजया ॥ ६९ ॥ त्यज्यतां पतिसमागमभ्रमः
प्रेत्य केन क इवानुषज्यते । स्वस्तपूर्वचरितोचितागति
भित्रभिन्नविषया हि देहिनाम् ॥ ७० ॥ तत्प्रदाय गुणिने गुणोज्वला
मात्मना हरितनूभवे सुताम् । आरचय्य च तपः सुदुष्करं
लप्स्यसे गतिमदुम्कदाश्रिताम् ॥ ७१ ॥ इत्य सावुशनसः सहेतुभिः
स्तैर्वचोभिरुपरम्य साहसात् । प्राविशत्पतिशुचेव सर्वतः
शून्यगोपुरचतुष्पा पूरीम् ॥ ७२ ॥ तावद्भयाकुलतया दनुजैः सदारैः
तामुझितां समरमूर्ध्नि हतावशेषैः । अध्यास्य वजनगरी सहिता दुहित्रा
दैत्याङ्गना मुररिपोः स्तनयाय तस्थे ।' ७३ ॥ Colophon : (See Leaf No. 15.) इति दन्तिद्योतिदिवाप्रदीपाङ्कसत्यमालश्रीनिवासदीक्षितवंश्येन घटिकाशतकवेरय्यादीक्षितस्य पुत्रेण मृत्युञ्जयेन विरचिते
प्रद्युम्नोत्तरचरिते प्रथमः सर्गः ॥
For Private and Personal Use Only