________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2667
BANSKRIT MANUBORIST. ॥निशीति ॥ निशि रात्रौ । दशमिता दशमोऽवस्थाविशेषोऽस्त्यस्या इति दशमिनी। 'वयसि पुरणात् "इतीनिः । तस्य भावस्तत्ता। " त्वतलोर्गुणवचनस्य" इति पुंकद्भावः। "वर्षीयान् दशमीज्यायान्" इत्यमरः । तामालिङ्गन्त्याः प्राप्नुवत्याः प्रियाया अङ्कमुत्समुपेयुषः प्राप्तवतः निषधवसुधायां निषधभुवि । मीनाङ्कस्य मीनकेतो नलस्य विबोधं विधित्सुमिर्विधातुमिच्छुभिःवैतानिकागधैः। श्रुतीनां श्रोत्राणां कर्णमधूनां स्वादूना पदानां स्रजो मालायाः। वैदग्धी चातुर्यम् । ब्राह्मणादिपाठात् व्यञ् । तया विभावितेनानुसंहितेन भाविकेनाभिप्रायवता स्फुटन व्यक्तेन रसेन शृङ्गा. रादिना भृशमत्यर्थ अभ्यक्ताः आक्षिप्ताः तादृशो गिरः वचनानि जगिरे । “के गै शन्दे"। वक्ष्यमाणप्रकारेण गदिताः ॥१॥
End:
॥ आगच्छन्निति । अथ भूपतिनलः स्वर्गङ्गायां मन्दाकिन्यामम्बुनि कृतदिनारम्भ प्रभाते आप्लुतिः स्वानं येन तादृशः सन् , प्रियाया यौतकत्वेन प्राप्तमतिपुष्पकं पुष्पकमतीत्यवर्तमानं रथमधिष्ठायानन्दादागच्छन्। उपाक्षणं प्रातःकालं भणतां वन्दिना दृशोराति ध्यमानशे प्राप्य अपरं पश्चादागतैर्वन्दिभिरविदितः । प्रासादतो निर्गमो यस्य सोऽविदितप्रासादनिर्गमः । तेषां वन्दिनामिति सम्बन्धः ।। ६६ ॥
श्रीहर्षमिति ॥ नलीयचरिते एको मुख्यां नवस्य नूतनस्यार्थस्य घटना न त्यजतः । नशन्देन समासः ।
For Private and Personal Use Only