SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSORIFTS 2511 ॥ अनुगिरमिति ॥ अथ ऋतुप्रादुर्भावानन्तरं स हरिः। गिरावनु अनुगिरम्। विभक्त्यर्थेऽव्ययीभावः । ऋतुमिः वसन्तादिभिः वितायमानां लक्ष्मी वनखरूपशोभा विलोकयितुमीक्षितुं निरगमत निर्गतः । तथा हि-अभिराखुमाराधयितुमाहतानामादरं कुर्वतो आस्थावताम् । प्रयास: सेवायासो महत्सु विषये निष्फलो न भवति । अतो हरेरपि ऋतुगणानुग्रहार्थो निर्गमो युक्त इति ॥१॥ End: ॥ विपुलकमिति ॥ यौवनोद्धतानां कामिनीनां कुचयुगं विपुलकं पुलकरहितमपि धनपुलकोदयेन सान्द्ररोमोद्गमेन कोमलं सदिति विरोधः। विपुलं विस्तृतं तदेव विपुलकमित्यविरोषः। प्रियैः प्रकामं परितो मलमस्येति परिमलम् । तत्कृतं परिमलितं मलिनीकृतं तथाप्युज्वलविमलमेव चकासे इति विरोधः । परिमलवत्कृतं परिमलितमित्यविरोधः ॥ ७० ॥ ॥ अभिमतमिति ॥ तनुः काचित्चन्त्री । अभिमत अभितः प्रियमपीत्यर्थः । उनतिवित्तं औसत्येन प्रतीतं प्रसिदं कृचयुगमुन्नमय्य कृतोऽङ्गभङ्गो गात्रविजृम्भणं यया सा तथा। वेल्लिते मिथो वेष्टिते बाहुवल्लयौँ भुजलते यया सा । कुपच्छलेन चेष्टापनोदकचेष्टाव्याजेनेत्यर्थः । अभिलपितमालिङ्गनायमि............ Colophon : Nil. Subject: Bisupālavadhavyakhya Seventh sarga only. For Private and Personal Use Only
SR No.020231
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 06
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages490
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy