SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SANSKRIT MANUSCRIPTS 2497 क्षुभ्यद्भावतरङ्गिते रससुधासिन्धौ मिमसन्ति ये तेषामेव कृते करोमि विवृति माघस्य सर्वकषाम् ॥ ६ ॥ नेतास्मिन्यदुनन्दनः स भगवान् वीरः प्रधानं रसः शृङ्गारादिभिरङ्गवान्विजयते पूर्णा पुनर्वर्णना। इन्द्रप्रस्थगमायुपायविषयश्चैद्यावसादः फलं धन्यो माघकविर्वयं तु कृतिनस्तत्सक्तिसंसेवनात् ॥ ७ ॥ इहान्वयमुखेनैव सर्व व्याख्यायते मया। नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥ ८ ॥ अथ तत्रभवान्माषकविः "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥" इत्यालङ्कारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेयासाधनतां "काव्यालापांश्च वजेयेत्” इति निषेधस्यासत्काव्य(विषय)ताच पश्यन् शिशुपालवधाख्यं काव्यश्चिकाश्विकीर्षिता. विघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणफलसाधनत्वात् "आशीर्नमस्क्रिया वस्तुनिर्देशोवापि तन्मुखम्" इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वाच काव्यफलशिशुपालवधवी. जभूतं भगवतः कृष्णस्य नारददर्शनरूपं वस्त्वादौ श्रीशब्दप्रयोगपूर्वकं निर्दिशन् कथामुपक्षिपति-श्रिय इति। अत्रादौ श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धिरभ्युच्चयः॥ तदुक्तम् "देवतावाचकाः शब्दाः ये च भद्रादिवाचकाः । ते सर्वेनैव निन्याः स्युलिपितो गणतोऽपि वा" इति ॥ For Private and Personal Use Only
SR No.020231
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 06
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages490
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy